|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.91. अध्यायः 091
Mahabharata - Bhishma Parva - Chapter Topics
दुर्योधनघटोत्कचयोर्युद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-91-0x(4171)(42796)
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 6-91-1(42797)
सञ्जय उवाच। 6-91-2x(4172)
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ 6-91-2(42798)
नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ 6-91-3(42799)
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ।
`चेलुश्च सहसा तत्र तेन नादेन नादिताः' 6-91-4(42800)
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ॥
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च। 6-91-5(42801)
सर्व एव महाराज तावका दीनचेतसः ॥
सर्वतः समचेष्टन्त सिंहभीता गजा इव । 6-91-6(42802)
नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ॥
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् । 6-91-7(42803)
नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ॥
आजघान सुसंक्रुद्धः कालान्तकयमोपभः । 6-91-8(42804)
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ॥
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् । 6-91-9(42805)
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ॥
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः । 6-91-10(42806)
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ॥
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ 6-91-11(42807)
पुत्रं तव महाराज चुकोप स निशाचरः ।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ 6-91-12(42808)
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च।
गजानीकं च संप्रेक्ष्य मेघबृन्दमिवोदितम् ॥ 6-91-13(42809)
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ।
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥ 6-91-14(42810)
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ।
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः ॥ 6-91-15(42811)
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ।
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥ 6-91-16(42812)
अपश्याम महाराज वध्यमानान्निशाचरैः ।
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥ 6-91-17(42813)
दुर्योधनो महाराज राक्षसान्समुपाद्रवत्।
अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः ॥ 6-91-18(42814)
मुमोच निशितान्बाणान्राक्षसेषु परंतप ।
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥ 6-91-19(42815)
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥ 6-91-20(42816)
शरैश्चतुर्भिश्चतुरो निजघान महाबलः ।
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥ 6-91-21(42817)
मुमोच भरतश्रेष्ठो निशाचरबलं प्रति।
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥ 6-91-22(42818)
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ।
स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥ 6-91-23(42819)
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् ।
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ॥ 6-91-24(42820)
न विव्यथे महाराज पुत्रो दुर्योधनस्तव।
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ॥ 6-91-25(42821)
घटोत्कच उवाच। 6-91-26x(4173)
अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च।
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ 6-91-26(42822)
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ।
यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला ॥ 6-91-27(42823)
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया।
तव च प्रियकामेन आश्रमस्था दुरात्मना ॥ 6-91-28(42824)
सैन्धवेन परामृष्टा परिभूय पितॄन्मम ।
एतेषामपमानानामन्येषां च कुलाधम ॥ 6-91-29(42825)
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्।
एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम् ॥ 6-91-30(42826)
संदश्य दशनैरोष्ठं सृकिणी परिसंलिहन्।
शरवर्षेण महता दुर्योधनमवाकिरत्।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ॥ 6-91-31(42827)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकनवतितमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|